________________ (5) नैषधीयचरितम् :: सप्तदशः सर्गः ] [ 873 स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् / इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम् // 74 / / मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् / गोतमं तमवेक्ष्यैव यथा वित्थ तथैव सः // 75 / / 5 दारा हरिहरादीनां तन्मग्न मनसो भृशम् / किं न मुक्ताः कुतः सन्ति कारागारे मनोभूवः / / 76 / / देवश्चेदस्ति .सर्वज्ञः करुणाभागवन्ध्यवाक् / तत्कि वाग्व्ययमात्रान्नः कृतार्थयति नाथिन: / / 77 // भविनां भावयन्दुःखं स्वकर्मजमपीश्वरः / स्यादकारणवैरी नः कारणादपरे परे // 78 / / तप्रितिष्ठया साम्यादन्योन्यस्य व्यतिघ्नताम् / नाप्रामाण्यं मतानां स्यात्केषां सत्प्रतिपक्षवत् // 76 / / अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः / निर्धनास्ते धनायैव धातुवादोपदेशिनः // 80 / / 15 किं वित्तं दत्त तुष्टेयमदातरि हरिप्रिया / दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान्बलि: // 81 / / दोग्धा द्रोग्धा च सर्वोऽयं धनिनश्चेतसा जनः। विसृज्य लोभसंक्षोभमेकद्वा यधुदासते / / 82 / / दैन्यस्यायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना / 20 स्वाच्छन्द्यमृच्छतानन्दकन्दलीकन्दमेककम् / / 83 // इत्थमाकर्ण्य दुर्वर्णं शक्र: सक्रोधतां दधे / - अवोचदुच्चैः कस्कोऽयं धर्ममर्माणि कृन्तति / / 84 / / लोकत्रयीं त्रयीनेत्रां वज्रवीर्यस्फुरत्करे / . क इत्थं भाषते पाकशासने मयि शासति / / 85 / / 25 वर्णासंकीर्णतायां वा जात्यलोपेऽन्यथापि वा / ब्रह्महादेः परीक्षासु भङ्गमङ्ग ! प्रमाणय / / 86 / / .