________________ 864 } [ काव्यषट्कं स्वयं गृहाणकमिहेत्युदीर्य तद् द्वयं ददौ शेषजिघृक्षवे हसन् / / 111 / / इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः / द्विरष्टसंवत्सरवारसुन्दरी परीष्टिभिस्तुष्टिमुपेयुषां निशि // 112 / / उवास वैदर्भहेषु पञ्चषा निशाः कृशाङ्गी परिणीय तां नल: / अथ प्रतस्थे निषधान्सहानया रथेन वार्ष्णेयगृहीतरश्मिना // 113 / / परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन् / रथे स . भैमी स्वयमध्यरूरुहन्न / तत्किलाश्लिक्षदिमां जनेक्षितः // 114 / / इति स्मरः शोघ्रमतिश्चकार तं वधू च रोमाञ्चभरेण कर्कशौ / स्खलिष्यति स्निग्धतनुः प्रियादियं - म्रदीयसी पीडनभीरुदोर्युगात् // 115 / / तथा किमाजन्मनिजाङ्कवधितां प्रहित्य पुत्री पितरौ विषेदतुः / विसृज्य तौ तं दुहितुः पति यथा / विनीततालक्षगुणीभवद्गुणम् .. 116 / / निजादनुव्रज्य स मण्डलावधे लं निवृत्तौ चटुलापतां गतः / तडागकल्लोल इवानिलं तटा द्धतानतिविवृते वराट राट् // 117 / / तडा