________________ 860 ] [ काव्यषट्क पिपासुरस्मीति विबोधिता मुखं निरोक्ष्य बाला सुहितेन वारिणः / पुनः करे कर्तु मना गलन्तिकां हसात्सखीनां सहसा न्यवर्तत / / 84 / / युवा समादित्सुरमत्रगं घतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् / चकार तन्नीविमिवेशिनं करं बभूव तञ्च स्फुटकण्टकोत्करम् // 85 / / प्रलेहजस्नेहधृतानुविम्बनां / चुचुम्ब कोऽपि श्रितभोजनच्छल: / मुहुः परिस्पृश्य कराङ्गुलीमुखै स्ततो नु रक्तैः स्वमवापितमु खम् / / 86 / / अराधि यन्मीनमृगाजपत्रिजैः पलैर्मदु स्वादु सुगन्धि तेमनम् / अशाकि लोकः कुत एव जेमितुं न तत्तु संख्यातुमपि स्म शक्यते / / 87 / / कृलार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किंचनकुञ्चितभ्रुवा / क्षिपन्मुखे भोजनलीलयाङ्गुलीः पुनः प्रसन्नाननयान्वकम्पि सः / / 88 / / अकारि नीहारनिभं प्रभञ्जना दधूपि यच्चागुरुसारदारुभिः / निपीय भृङ्गारकसङ्गि तत्र तै रवणि वारि प्रतिवारमीदृशम् // 89 / / त्वया विधातर्यदकारि चामृतं कृतं च यज्जीवनमम्बु साधु तत् /