________________ 858 ] { काव्यषट्कं / / 70 / / वघभिरेभ्यः प्रवितीर्य पायसं . . . तदोघकुल्यातटसैकतं कृतम् // 70 / / यदप्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततोऽनुमीयते / अपि ऋतूषर्बुधदग्धगन्धिने स्पृहां यदस्मै दधते सूधान्धसः / / 71 / / प्रबोधि नो होनिभृतं मदिङ्गितं प्रतीत्य वा नास्तवत्यसाविति / लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा / / 72 / / न राजिकाराद्धमभोजि तत्रक मुखेन सीत्कारकृता दधद्दधि / धुलोत्तमाङ्गैः कटुभावपाटवा ___दकाण्डकण्डूयितमूर्धतालुभिः / / 73 / / वियोगिदाहाय कटूभवत्त्विष स्तुषारभानोरिव खण्डमाहृतम् / सितं मृदु प्रागथ दाहदायि तत् खलः सुहृत्पूर्वमिवाहितस्ततः // 74 / / नवौ युवानो निजभावगोपिना वभूमिषु प्राग्विहितभ्रमिक्रमः / दृशोविधत्तः स्म यहच्छया किल ___ विभागमन्योन्यमुखे पुनः पुनः // 75 // व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः / निशाधवोत्सङ्गकुरङ्गजैरदः / पलैः सपीयूषजलैः किमश्रपि // 76 / / 25