________________ (5) नैषधीयचरितम् :: षोडशः सर्गः ] [ 851 प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् / कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते / / 24 / / महेन्द्रमुच्चैःश्रवसा प्रतार्य यनि जेन पत्याऽकृत सिन्धुरन्वितम् / स तद्ददेऽस्मै हयरत्नमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् // 25 / / जवादवारीकृतदूरदृक्पथ स्तथाक्षियुग्माय ददे मुदं न यः / ददद्दिदृक्षादरदासतां यथा __ तयैव तत्पांसुलकण्ठनालताम् // 26 / / दिवस्पतेरादरदर्शिनादरा. दढौकि यस्तं प्रति विश्वकर्मणा / तमेकमाणिक्यमयं महोन्नतं पतग्रहं ग्राहितवान्नलेन सः // 27 / / नलेन ताम्बूलविलासिनोज्झितै- . .. मुखस्य य: पूगकणै तो न वा / / इति व्यवेचि स्वमयूखमण्डला- .. ... दुदञ्चदुचारुणचारुपश्चिरात् // 28 // मयेन भीमं भगवन्तमर्चता . नपेऽपि पूजा प्रभुनाम्नि या कृता / प्रदत्त भीमोऽपि स नैषधाय तां . हरिन्मणेभॊजनभाजनं महत् // 26 // छदे सदैव च्छविमस्य बिभ्रतां - न केकिनां सर्पविषं विसर्पति / 25 ननीलकण्ठत्वमधास्यदत्र चेत् / ___ स कालकूटं भगवान भोक्ष्यत // 30 / /