________________ 840 ] [ काव्यषट्कं AC स्वरेण वीणेत्यविशेषणं पुरा स्फुरत्तदीया खलु कण्ठकन्दली / अवाप्य तन्त्रीरथ सप्त मुक्तिका सरानराजत्परिवादिनी स्फुटम् // 44 / / उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया / रराजतुर्माङ्गलिकेन संगतो - भुजौ सुदत्या , वलयेन कम्बुनः / / 45 / / पदद्वयेऽस्या नवयावरञ्जना जनस्तदानीमुदनीयतापिता / चिराय पद्मौ परिरभ्य जाग्रती निशीव विश्लिष्य नवा रविद्युति: / / 46 / / कृतापराधः सुतनोरनन्तरं विचिन्त्य कान्तेन समं समागमम् / स्फुटं सिषेवे कुसुमेधूपावकः स रागचिह्नश्चरणौ न यावक: 47 स्वयं तदङ्गेषु गतेषु चारुतां परस्परेणैव विभूषितेषु च / किमूचिरेऽलंकरणानि तानि तद्- . वृथैव तेषां करणं बभूव यत् // 48 / / क्रमाधिकामुत्तरमुत्तरं श्रियं पुपोष यां भूषणचुम्बनेरियम् / पुरः पुरस्तस्थुषि रामणीयके तया बबाधेऽवधिबुद्धिधोरणिः // 49 / / मणीसनाभौ मुकुरस्य मण्डले बभौ निजास्यप्रतिबिम्बदशिनी / 25 विघोरदूरं स्वमुखं विधाय सा . निरूपयन्तीव विशेषमेतयोः // 50 //