________________ (5) नषधीयचरितम् :: पञ्चदशः सर्गः ] [836 तदक्षितत्कालतुलागसा नखं - निखाय कृष्णस्य मृगस्य चक्षुषी। वेधिर्यदुद्धतु मियेष तत्तयो रदूरवर्तिक्षतता स्म शंसति // 37 / / विलोचनाभ्यामतिमात्रपीडिते ____वतंसनीलाम्बुरुहद्वयीं खलु / तयोः प्रतिद्वन्द्विधियाधिरोपयां बभूवतुर्भीमसुताश्रुती ततः // 38 / / धृतं वतंसोत्पलयुग्ममेतया . - व्यराजदस्यां पतिते दृशाविव / मनोभूवान्ध्यं गमितस्य पश्यतः . स्थिते लगित्वा रसिकस्य कस्यचित् / / 39 / / विदर्भपुत्रीश्रवणावतंसिकामणीमहःकिंशुककामुकोदरे / उदीतनेत्रोत्पलबाणसंभृतिनलं परं लक्ष्यमवैक्षत स्मरः // 40 // अनाचरत्तथ्यमृषाविचारणां ____तदानन· कर्णलतायुगेन किम् / बबन्ध जित्वा मणिकुण्डले विधू / द्विचन्द्रबुद्धया कथितावसूयकौ // 41 // अवादि भैमी परिघाप्य कुण्डले वयस्ययाभ्यामभितः समन्वयः / त्वदाननेन्दोः प्रियकामजन्मनि / श्रयत्ययं दौरुघरी धुरं ध्रुवम् // 42 / / निवेशितं यावकरागदीप्तये .. लगत्तदीयाधरसीम्नि सिक्थकम् / रराज तत्रैव निवस्तुमुत्सुकं 'मधूनि निधूय सुधासधर्मणि // 43 //