________________ (5) नैषधीयचरितम् :: पञ्चदशः सर्गः ] . [ 835 अथावददूतमुखः स नैषधं . कुलं च बाला च ममानुकम्प्यताम् / स पल्लवत्वद्य मनोरथाकुर श्चिरेण नस्त्वच्चरणोदकैरिति / / 6 / / तथोत्थितं भीमवचःप्रतिध्वनि निपीय दूतस्य स वक्त्रगह्वरात् / व्रजामि वन्दे चरणौ गुरोरिति ब्रुवन्प्रदाय प्रजिघाय तं बहु // 10 / / निपीतदूतालपितस्ततो नलं विदर्भभर्तागमयांबभूव सः / 10 निशावसाने श्रुतताम्रचूडवाग्यथा रथाङ्गस्तपनं धृतादरः / 11 / क्वचित्तदालेपनदानपण्डिता कमप्यहंकारमगात्पुरस्कृता / अलम्भि तुङ्गासनसंनिवेशनादपूपनिर्माणविदग्धयादरः / / 12 / / मुखानि मुक्तामणितोरणोद्गतै-. मरीचिभिः पान्थविलासमाश्रितः / पुरस्य तस्याखिलवेश्मनामपि प्रमोदहासच्छुरितानि रेजिरे // 13 // पथामनीयन्त तथाधिवासना- . न्मधुवतानामपि दत्तविभ्रमाः / वितानतामातपनिर्भयास्तदा / . पटच्छिदाकालिकपुष्पजा: स्रजः // 14 / / विभूषणैः कञ्चकिता बभः प्रजा. विचित्रचित्रैः स्रपितत्विषो गहाः / बभूव तस्मिन्मरिणकुट्टिमैः पुरे . वपुः स्वमुव्यां परिवर्तितोपमम् / / 15 / / 25 तदा निसस्वानतमां धनं धनं / ननाद तस्मिन्नितरां ततं ततम् /