________________ 830 ] [ काव्यषट्कं निर्वातमिच्छोरपि तत्र भैमी संभोगसंकोचभियाधिकाशि // 75 / / धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे / कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः / / 76 / / या दाहपाकोपयिको तनुर्म भूयात्त्वदिच्छावशवतिनी सा / तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि / / 77 / / अस्तु त्वया साधितमन्नमोनरसादि पीयूषरसातिशायि / यद्भप ! विद्मस्तव सूपकारक्रियासु कौतूहल शालि शीलम् / 78 / वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट धराधिराजम् / वरप्रदानाय तवावदानश्चिरं मदीया रसनोद्धरेयम् / / 79 / / सर्वाणि शस्त्राणि तवाङ्गचक्र राविर्भवन्तु त्वयि शत्रुजंत्रे / अवाप्यमस्मादधिकं न 'किंचि ज्जागति वीरव्रतदीक्षितानाम् / / 80 / / कृच्छ गतस्यापि दशाविपाक धर्मान्न चेतः स्खलतु त्वदीयम् / अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः / / 81 / / स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपति प्रचेताः / 20 प्रदाय भैमीमधुना वरौ तु ददामि तद्यौतककौतुकेन / / 2 / / यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः / प्रापो वहन्तीह हि लोकयात्रां ___ यथा न भूतानि तथाऽपराणि / / 83 // 25 प्रसारितापः शुचिभानुनास्तु मरुः समुद्रत्वमपि प्रपद्य / भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव / / 84 / /