________________ (5) नैषधीयचरितम् :: चतुर्दशः सर्गः ] . [ 426 तस्यां मनोबन्धविमोचनस्य कृतस्य तत्काल मिव प्रचेताः / पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् / / 67 / / सहद्वितीयः स्त्रियमभ्युपेयादेवं स दुर्बुध्य नयोपदेशम् / अन्यां सभार्यः कथमृच्छतीति जलाधिषोऽभूदसहाय एव / 68 / देव्यापि दिव्याऽनु तनुः प्रकाशी ___ कृता मुदश्चक्रभृतः सृजन्ती / अनिह्न तैस्तामवधार्य चिह्न स्तद्वाचि बाला शिथिलाद्भुताभूत् / / 66 / / विलोकके नायकमेलकेऽस्मिन् ____ रुपान्यताकौतुकशि भिस्तैः / बाघा बतेन्द्रादिभिरिन्द्रजाल विद्याविदो वृत्तिवधायधायि // 70 / / विलोक्य नावाप्तदुरापकामो परस्परप्रेमरसाभिरामौ / अथ प्रभुः प्रीतमना बभाषे जाम्बूनदोर्वीधरसार्वभौमः / / 71 / / वैदभि ! दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव / दूत्यं तु यत्त्वं कृतवानमायं . . नल ! प्रसादस्त्वयि तन्ममायम् // 72 / / प्रत्यक्षलक्ष्यामवलम्ब्य मूर्ति हुतानि यज्ञेषु तवोपभोक्ष्ये / 20 संशेरतेऽस्माभिरवीक्ष्य भुक्त मखं हि मन्त्राधिकदेवभावे / 73 / / भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् / प्रेत्यास्मि कीडग्भवितेति चिन्ता संतापमन्तस्तनुते हि जन्तोः // 74 / / तवोपवाराणिसि नामचिह्न / वासाय पारेसि पुरं पुरास्ति / // 74 / /