________________ 820 ] [ काव्यषट्कं सः / / 54 / / प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये ___विलसति चरमेऽनुप्रासभासां विलासः / / 54 / / इति मनसि विकल्पानुद्यतः संत्यजन्ती __ क्वचिदपि दमयन्ती निर्णयं नाससाद / मुखमथ परितापास्कन्दितानन्दमस्या मिहिरविरचिताबस्कनन्दमिन्दुं निनिन्द // 55 // श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदोये महा१० काव्येऽयं व्यरमन्नलस्य चरिते सर्गो रसाम्भोनिधिः / / 56 / / / / इति महाकवि श्री हर्षप्रणोते नैषधीयप्रकाशे त्रयोदशः सर्गः समाप्तः / / 13 / / // 14 // चतुर्दशः सर्गः। // 1 // प्रथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम् / यतः सुराणां सुरभिर्नृणां तु सा वेधसासृज्यत कामधेनुः प्रदक्षिगप्रक्रमणालवाल विलेषधूपाचरणाम्बुसेकैः / . इष्टं च मृष्टं च फलं सुवाना। देवा हि कल्पद्रमकाननं नः श्रद्धामयीभूय सुपर्वणस्ता नाम नामग्रहणायकं सा / / / 2 / /