________________ रघुवंशे नवमः सर्गः ] उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी। सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः 44 ध्वजपटं मदनस्य धनु तश्छविकरं मुखचूर्णमृतुश्रियः / कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः / / 45 / / अनुभन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया / अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः / / 46 / / त्यजत मानमलं बत विग्रहर्न पुनरेति गतं चतुरं वयः / परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः / 47 / अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः / 10 नरपतिश्चकमे मृगयारति स मधुमन्मधुमन्मथसंनिभः / / 48 / / परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् / श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ / 46 / मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः / गगनमश्वखुरोद्धतरेणुभिसविता स वितानमिवाकरोत् / 50 / 15 ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः / तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु // 51 / / तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः / ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् / / 52 / / श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः / 20 स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् / 53 / अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् / धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी / / 54 / / तस्य स्तनप्रणयिभिमुहुरेणशावै ___हिन्यमानहरिणीगमनं पुरस्तात् / 25 / आविर्बभूव कुशगर्भमुखं मगाणां यूथं तदग्रसरगर्वितकृष्णसारम् // 55 / / (वसंततिलका)