________________ 806 ] [ काव्यषट्कं // 76 / / // 8 // अयं गुणोधैरनुरज्यदुत्कलो भवन्मुखालोकरसोत्कलोचनः / स्पृशन्तु रूपामृतवापि ! नन्वमु __तवापि दृक्तारतरङ्गभङ्गयः . ||78 // अनेन सर्वाथिकृतार्थताकृता . हतार्थिनी कामगवीसुरद्रुमौ / मिथ:पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदद्वये / तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरऽजना यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना / 15 एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती धिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः / / 81 / / अमुष्योर्वीभतु : प्रसृमरचमूसिन्धुरभवै. रवैमि प्रारब्धे वमथुभिरवश्यायसमये / न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्त्रभोजं भवतु न स तेषां कुदिवसः // 2 // प्रात्मन्यस्य समुच्छितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जनादजनयद्भजानिरेष द्विषाम् / भूयोऽहं क्रियते स्म येन च हृदा स्कन्धो न यश्चानम तन्मर्माणि दलं दल समिदलकर्मीणबाणवजः / / 83 / / 25 दूरं गौरगुणैरहंकृतिभृतां जैत्राङ्ककारे चर त्येतद्दोर्यशसि प्रयाति कुमुदं बिभ्यन्न निद्रां निशि /