________________ (5) नैषधीयचरितम् :: द्वादशः सर्गः ] [805 5 विधाय यावत्तरणेभिदामहो . निमज्ज्य तीर्णः समरे भवार्णवः // 71 / / यदस्य भूलोकभुजो भुजोष्मभि स्तपतु रेव क्रियतेऽरिवेश्मनि / प्रपां न तत्रारिवधूस्तपस्विनी ददातु नेत्रोत्पलवासिभिर्जलैः // 72 / / एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसाइँन्धनत द्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय / एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासी१० देतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु // 73 / / क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैनिमिते स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् / केषां नाजनि वा जनेन जगतामेतत्कवित्वामृत स्रोतः प्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः // 74 / / 15 समिति पतिनिपाताकर्णनद्रामदीर्ण- . प्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु / रचितलिपिरिवोरस्ताडनव्यस्तहस्त- . प्रखरनखरटङ्करस्य कीर्तिप्रशस्तिः // 75 / / विधाय ताम्बूलपुटी कराङ्कगां बभाण ताम्बूलकरङ्कवाहिनी / दमस्वसुर्भावमवेत्य भारती - नयानया वक्त्रपरिश्रमं शमम् // 76 / / समुन्मुखीकृत्य बभार भारती __रतीशकल्पेऽन्यनृपे निजं भुजम् / ततस्त्रसद्वालपृषद्विलोचना शशंस संसज्जनरञ्जनी जनीम् // 77 / / 20