________________ (5) नैषधीयचरितम् :: द्वादशः सर्गः ] [ 766 विधीयतामाननमुद्रणेति सा जगाद वैदग्ध्यमयेङ्गितैव ताम् // 31 / / अनन्तरं तामवदन्नृपान्तरं तदध्वक्तारतरङ्गरङ्गणा। तृणीभवत्पुष्पशरं सरस्वती स्वतीव्रतेजः परिभूतभूतलम् / / 32 / / तदेव किं नु ! क्रियते न का क्षति यदेष तद्रूतमुखेन काङ्क्षति / प्रसीद काञ्चीमयमाच्छिनत्तु ते - प्रसह्य काञ्चीपुरभूपुरंदरः // 33 // मयि स्थितिनम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलक्यते / इतीव चापं दधदाशुगं क्षिप नयं नयं सम्यगुपादिशद्विषाम् // 34 / / अद:समित्संमुखवीरयौवतत्रुटभुजाकम्बुमृणालहारिणी। द्विषद्गणस्त्रैणहगम्बुनिर्भरे यशोमरारालावलिरस्य खेलति / 35 / 15 सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके व्योमान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोधरे धावति / जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेवास्तं यान्ति समस्तबाहुनभुजातेजःसहस्रांशवः // 36 / / हित्वा दैत्यरिपोरुर: स्वभवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकृत्रिमसितच्छत्रीभवत्कौस्तुभम् / उज्झित्वा निजसद्म पद्ममपि तद्व्यक्तावनद्धीकृतं लूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति // 37 / / सिन्धोर्जेत्रमयं पवित्रमसृजत्तत्कीर्तिपूर्ताद्भुतं यत्र स्नान्ति जगन्ति सन्ति कवयः के वा न वाचंयमाः / 25 यद्विन्दुश्रियमिन्दुरञ्चति जलं चाविश्य दृश्येतरो यस्यासो जलदेवतास्फटिकभूर्जागति यागेश्वरः // 38 / /