________________ 762 ] [ काव्यषट्कं भूताभिधानपटुमद्यतनीमवाप्य . भीमोद्भवे! भवतिभावमिवास्तिधातुः / / 117 / / निविश्य निविरति काशिनिवासि भोगा निर्माय नर्म च मिथो मिथुनं यथेच्छम् / गौरीगिरीशघटनाधिकमेकभावं __ शर्मोमिकञ्चुकितमञ्चति पञ्चतायाम् / / 18 / न श्रद्दधासि. यदि तन्मम मौनमरतु कथ्या निजाप्ततमयैव तवानुभूत्या / न स्यात्कनीयसितरा यदि नाम काश्या राजन्वती मुदिरमण्डनधन्वना भूः / / 116 / / ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याः ___ कार्य किमन्यकथनैरपि यत्र मृत्योः / एक जनाय सतताभयदानमन्य द्धन्ये ! वहत्यमृतसत्रमवारिताथि / / 120 / / भूभर्तु रस्य रतिरेधि मृगाक्षि ! मूर्ता सोऽयं तवास्तु कुसुमायुध एव मूर्तः ! भातं च ताविव पुरा गिरिशं विराद्ध ___माराद्धमाशु पुरि तत्र कृतावतारौ / / 121 / / कामानुशासनशते सुतरामधीती ____सोऽयं रहो नखपदैर्महतु स्तनो ते / रुष्टाद्रि नाचरणकुकुमपङ्कराग संकीर्णशकरशशाङ्ककलाङ्ककारैः / / 122 / / पृथ्वीश एष नुदतु त्वदनङ्गताप मालिङ्गय कीर्तिचयचामरचारुचापः / सङ्ग्रामसंगतविरोघिशिरोधिदण्ड खण्डिक्षरप्रशरसंप्रसरन्प्रतापः 25