________________ 790 ] ___ [ काव्यषट्कं ज्याघातजेन रिपुराजकधूमकेतु तारायमाणमुपरज्य मणि किणेन / / 104 / / एतद्भुजारणिसमुद्भवविक्रमाग्नि चिह्न धनुर्गुणकिणः खलु धूमलेखा / जातं ययारिपरिषन्मशकार्थयात्रु- . ___ विश्राणनाय रिपुदारगम्बुजेभ्यः / / 105 / / श्यामीकृतां मृगमदैरिव माथुरीणां धौतैः कलिन्दतनयामधिमध्यदेशम् / तत्राप्तकालियमहाह्रदनाभिशोभां रोमावलीमिव विलोकयितासि भूमेः / / 106 / / गोवर्धनाचलकलापिचयप्रचार निर्वासिताहिनि धने सुरभिप्रसूने / तस्मिन्ननेन सह निविंश निर्विशङ्क वृन्दावने वनविहारकुतूहलानि // 107 / / भावी करः कररुहाकुरकोरकोऽपि तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः / अन्तस्त्वदास्यहृतसारतुषारभानु शोकानुकारिकरिदन्तजकङ्कणाङ्कः // 108 / / तज्जः श्रमाम्बु सुरतान्त मुदा नितान्त मुत्कण्टके स्तनतटे तव संचरिष्णुः / खजन्प्रभजनजनः पथिक: पिपासुः पाता कुरङ्गमदपङ्किलमप्यशङ्कम् / / 106 / / पूजाविधौ मखभुजामुपयोगिनो ये बिद्वत्कराः कमलनिर्मलकान्तिभाजः / लक्ष्मीमनेन दधतेऽनुदिनं वितीण स्ते हाटकैः स्फुटवराटकगौरगर्भाः / / 110 // 25