________________ 786 ] [ काव्यषट्कं / / 78 / / क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽद्य मृषोद्यमस्तु // 78 / / ब्रूमः किमस्य नलमप्यलमाजुहूषोः कीर्ति स चैष च समादिशतः स्म कर्तुम् / स्वद्वीपसीमसरिदीश्वरपूरपार वेलाचलाक्रमणविक्रममक्रमेण // 76 / / अम्भोजगभरुचिराथ विदर्भसुभ्रू ___स्तं गर्भरूपमपि रूपजितत्रिलोकम् / वैराग्यरूशमवलोकयति स्म भूपं दृष्टि: पुरत्रयरिपोरिव पुष्पचापम् / / 8 / / ते तां ततोऽपि चकृषुर्जगदेकदीपा दंसस्थलस्थितसमानविमानदण्डाः / चण्डद्यतेरुदयिनीमिव चन्द्रलेखां सोत्कण्ठकैरववनीसुकृतप्ररोहाः // 81 / / भूपेषु तेषु न मनागपि दत्तचित्ता विस्मेरया वचनदेवतया तयाथ / वाणोगुणोदयतृणीकृतपाणिवीणा निक्वाणया पुनरभाणि मृगेक्षणा सा / / 2 / / यन्मौलिरत्नमुदितासि स एष जम्बू द्वीपस्त्वदर्थमिलितैयुवभिविभाति / दोलायितेन बहुना भवभीतिकम्प्रः कंदर्पलोक इव खात्पतितस्त्रुटित्वा / / 83 / / विष्वग्वृतः परिजनैरयमन्तरीपै स्तेषामधीश इव राजति राजपुत्रि ! / हेमाद्रिणा कनकदण्डमहातपत्रः कैलासरश्मिचयचामरचक्रचिह्नः // 84 / / 25 118411