________________ (5) नैषधीयचरितम् :: दशमः सर्गः / / 763 नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्रगाचार्यकवित्कविर्यः / देतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभामभाणीत् // 56 / / अमेलयद्भीमनपः परं न नाकर्षदेतान्दमनस्वसैव / इदं विधातापि विचिन्त्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः // 60 / / एकाकिभावेन पुरा पुरारि ___यः पञ्चतां पञ्चशरं निनाय / तद्भोसमाधानममुष्य काय निकायलीलाः किममी युवानः // 61 / / पूर्णन्दुबिम्बाननुमासभिन्नानस्थापयत्क्वापि निधाय वेधाः। तैरेव शिल्पी निरमादमोषां मुखानि लावण्यमयानि मन्ये / / 62 / / 15 मुधापित मूर्धसु रत्नमेभिर्यन्नाम तानि स्वयमेत एव / स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणार्थमर्थ्यम् / / 63 / / प्रवेक्ष्यतः सुन्दरवन्दमुच्च रिदं मुदा चेदितरेतरं तत् / न शक्ष्यतो लक्षयितुं विमिश्रं दस्रौ सहस्र रपि वत्सराणाम् // 64 / / स्थितैरियद्भिर्युवभिविदग्धे दग्धेऽपि कामे जगतः क्षतिः का। एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् // 65 / / 25 इति स्तुवन्हुंकृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतैव / प्रोंकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथाऽन्वमानि / / 66 / /