________________ 754 ] [ काव्यषट्कं त्वदेकचित्ताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् // 147 / / श्रुतिः सुराणां गुणगायनी यदि त्वद िमग्नस्य जनस्य किं ततः / स्तवे रवेरप्सु कृताप्लवैः कृते न मुद्वती जातु भवेत्कुमुद्वती // 148 / / कथासु शिष्य वरमद्य न ध्रिये ममावगन्तासि न भावमन्यथा / त्वदर्थमुक्तासुतया सुनाथ ! मां प्रतीहि जीवाभ्यधिक ! त्वदेकिकाम् / / 149 / / महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभृव्रतम् / प्रसूनबाणादपि मामरक्षतःक्षतं तदुच्चैरवकोणिनस्तव / / 150 / / तवास्मि मां घातुकमप्युपेक्षसे मृषामरं हाऽमरगौरवात्स्मरम् / अवेहि चण्डालमनङ्गमङ्ग ! तं स्वकाण्डकारस्य मघोः सखा हि सः / / 151 / / लघौ लघावेव पुरः परे बुध विधेयमुत्तेजनमात्मतेजसः / . तृणे तृणेढि ज्वलनः खलु ज्वलन् ___क्रमाकरीषद्रुमकाण्डमण्डलम् // 152 / / सुरापराधस्तव वा कियानयं स्वयंवरायामनुकम्प्रता मयि / गिरापि वक्ष्यन्ति मखेषु तर्पणा दिदं न देवा मुखलज्जयैव ते // 153 / / 25 वजन्तु ते तेऽपि वरं स्वयंवरं प्रसाद्य तानेव मया वरिष्यसे /