________________ (5) नैषधीयचरितम् :: नवमः सगः ] [ 713 विदर्भ राजप्रभवा ततः परं त्रपासखो वक्तुमलं न सा नलम् / पुरस्तमूचेऽभिमुखं यदत्रपा ___ममज्ज तेनैव महाह्रदे ह्रियः // 141 / / यदापवापि न दातुमुत्तरं शशाक सख्याः श्रवसि प्रियस्य सा। विहस्य सख्येव तमब्रवीत्तदा ह्रियाऽधुना मौनधना भवत्प्रिया // 142 / / पदातिथ्याँल्लिखितस्य ते स्वयं . वितन्वती लोचननिर्भरानियम् / जगाद यां सैव मुखान्मम त्वया प्रसूनबाणोपनिषन्निशम्यताम् / / 143 / / असशयं स त्वयि हंस एव मां. शशंस न त्वद्विरहाप्तसंशयाम् / क्व चन्द्रवंशस्य वतंस ! मद्वधा नशंसता संभविनी भवाशे // 144 / / जितस्त्वयास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः / तवेति कृत्वा यदि तज्जित मया न मोघसङ्कल्पधराः किलामराः // 145 / / निजांशुनिर्दग्धमदङ्गभस्मभि मुंधा विधुर्वाञ्छति लाञ्छनोन्भृजाम् / त्वदास्यतां यास्यति तावतापि किं वधूवधेनैव पुनः कलङ्कितः // 146 / / 25 . ' प्रसीद यच्छ स्वशरान्मनोभुवे स हन्तु मां तेधुं तकौसुमाशुगः /