________________ 734 ] ( काव्यषट्कं वदामि वामाक्षि ! परेषु मा क्षिप . स्वमीदृशं माक्षिकमाक्षिपद्वचः // 17 / / करोषि नेमं फलिनं मम श्रम दिशोऽनुगृह्णासि न कंचन प्रभुम् / त्वमित्थमर्हासि सुरानुपासितुं रसामृतस्नानपवित्रया गिरा // 18 // सुरेषु संदेशयसीदृशीं बहुं रसस्रवेण स्तिमितां न भारतीम् / / मर्पिता दर्पकतापितेषु या - प्रयाति दावादितदाववृष्टिताम् // 19 / / यथा यथेह त्वदुपेक्षयानया निमेषमप्येष जनो विलम्बते / रुषा शरव्यीकरणे दिवौकसां तथा तथाद्य त्वरते रतेः पतिः // 20 // इयच्चिरस्यावदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिर्न निर्ममौ / धिगस्तु मां सत्वरकार्यमन्थरं स्थितः परप्रेष्यगुणोऽपि यत्र न // 21 // इदं निगद्य क्षितिभर्तरि स्थिते तयाभ्यधायि स्वगतं विदग्धया। अधिस्त्रि तं दूतयतां भुवः स्मरं मनो दधत्या नयनैपुणव्यये // 22 // जलाधिपस्त्वामदिशन्मयि ध्रुवं परेतराजः प्रजिघाय स स्फुटम् / मरुत्वतैव प्रहितोऽसि निश्चिंतं नियोजितश्चोर्ध्वमुखेन तेजसा // 23 / / 25