________________ 724 [ काव्यषट्कं अयोधि तद्धैर्यमनोभवाभ्यां. तामेव भैमीमवलम्ब्य भूमीम् / अाह स्म यत्र स्मरचापमन्त श्छिन्नं ध्रुवौ तज्जयभङ्गवार्ताम् / / 53 / / 5 अथ स्मराज्ञामवधीर्य धैर्यादूचे स तद्वा गुपवीणितोऽपि / विवेकधाराशतधौतमन्तः सतां न कामः कलुषोकरोति / / 54 / / हरित्पतीनां सदसः प्रतीहि त्वदीयमेवातिथिमागतं माम् / वहन्तमन्तगुरुणादरेण प्राणानिव स्वःप्रभुवाचिकानि / / 55 / / विरम्यतां भूतवती सपर्या / निविश्यतामासनमुज्झितं किम् / या दूतता नः फलिना विधेया ___ सैवातिथेयी पृथुरुद्भवित्री // 56 // कल्याणि! कल्यानि तवाङ्गकानि कंच्चित्तमां चित्तमनाविलं ते / अलं विलम्बन गिरं मदीया ___ माकणयाकर्णतटायताक्षि ! // 57 / / कौमारमारभ्य गणा गुणानां हरन्ति ते दिक्षु धृताधिपत्यान् / सुराधिराजं सलिलाधिपं च हुताशनं चाय मनन्दनं च / / 58 / / चरच्चिरं शैशवयौवनीयद्वैराज्यभाजि त्वयि खेदमेति / 20 तेषां रुचश्चौरतरेण चित्तं पञ्चेषुणा लुण्ठितधैर्यवित्तम् / / 56 / / तेषामिदानी किल केवलं सा हृदि त्वदाशा विलसत्यजस्रम् / प्राशास्तु नासाद्य तनूरुदाराः पूर्वादयः पूर्ववदात्मदाराः 25 अनेन साधं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् / // 6 //