________________ (5) नैषधीयचरितम् :: अष्टमः सर्गः / [ 721 10 न मन्मथस्त्वं स हि नास्तिमूर्ति न चाश्विनेयः स हि नाद्वितीयः / चिह्न: किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः // 26 / / ग्रालोकतृप्तीकृतलोक ! यस्त्वा मसूत पीयूषमयूखमेनम् / कः स्पधितु धावति साधु सार्ध . मुदन्वता नन्वयमन्ववायः // 30 // भूयोऽपि बाला नलसुन्दरं तं _____ मत्वामरं रक्षिजनाक्षिबन्धात् / आतिथ्यचाटून्यपदिश्य तत्स्थां ___ श्रियं प्रियस्यास्तुत वस्तुतः सा / / 31 / / वाग्जन्मवैफल्यमस ह्यशल्यं . गुणाद्भुते वस्तुनि मौनिता चेत् / खलत्वमल्पीयसि जल्पितेऽपि - तदस्तु बन्दिभ्रमभूमितैव / / 32 / / कंदप एवेदमविन्दत त्वां पुण्येन मन्ये पुनरन्यजन्म / चण्डीशचण्डाक्षिहुताशकुण्डे * जुहाव यन्मन्दिरमिन्द्रियाणाम् शोभायशोभिजितशैवशैलं - करोषि लज्जागुरुमौलिमलम् / दस्रौ हठश्रीहरणादुदस्रो कंदर्पमप्युज्झितरूपदर्पम् अवैमि हंसावलयो वलक्षा स्त्वत्कान्तिकीर्तेश्चपला: पुलाकाः / // 33 // // 34 // 25