________________ 712 ] [ काव्यषट्कं उच्चैस्तु तचित्रममुष्य भग्न ___स्यालोक्यते निव्यथनं यदन्तः // 68 / / अजीयतावर्तशुभंयुनाभ्यां ____ दोा मृणालं किमु कोमलाभ्याम् / निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् // 69 / / रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे / हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य / / 70 / / अस्याः करस्पर्धनगर्धनद्धि बलत्वमापत् खलु पल्लवो यः / भूयोऽपि नामाधरसाम्यगवं कुर्वन्कथ वास्तु ,न स प्रवालः // 71 / / अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः / इत्याह धाता हरिणेक्षणायां किं हस्तलेखोकृतया तयाऽस्याम् // 72 / / किं नर्मदाया मम सेयमस्या दृश्याभितो वाहुलतामृणाली / कुचौ किमुत्तस्थतुरन्तरीपे स्मरोष्मशुष्यत्तरबाल्यवारः ||73 / / ताल प्रभु स्यादनुकतु मेता __ वुत्थानसुस्थौ पतितं न तावत् / . परं च नाश्रित्य तरुं महान्तं कुचौ कृशाङ्गयाः स्वत एव तुङ्गो // 74 / / एतत्कुचस्पधितया घटस्य / ख्यातस्य शास्त्रेषु निदर्शनत्वम् /