________________ (5) नैषधीयचरितम् :: षष्ठः सर्गः ] [ 663 तारुण्यपुण्यामवलोकयन्त्योरन्योन्यमेणेक्षणयोरभिख्याम् / मध्ये मुहूर्त स बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय / / 40 / / पुरःस्थितस्य क्वचिदस्य भूषा रत्नेषु नार्यः प्रतिबिम्बितानि / व्योमन्यदृश्येषु निजान्यपश्य विस्मित्य विस्मित्य सहस्रकृत्वः / / 4 / / तस्मिन्विषज्यापथात्तपातं - तदङ्गरागच्छुरितं निरीक्ष्य / विस्मे रतामापुरविस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः // 42 / / पुंसि स्वभर्तृव्यतिरिक्तभूते भूत्वाप्यनीक्षानियमवतिन्यः / छायासु रूपं भुवि वीक्ष्य तस्य फलं दृशोरानशिरे महिष्य: // 43 / / 15 विलोक्य तच्छायमकि ताभिः पति प्रति स्वं वसुधापि धत्ते। यथा वयं कि मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् / / 44 / / रूप प्रतिच्छायिकयोपनीत मालोकि ताभिर्यदि नाम कामम् / तथापि नालोकि तदस्य रूपं 20 हारिद्रभङ्गाय वितीर्णभङ्गम् भवन्नदृश्यः प्रतिबिम्बदेह व्यूहं वितन्वन्मणिकुट्टिमेषु / पुरं परस्य प्रविशन्वियोगी योगीव चित्रं स रराज राजा / / 46 / / 25 / 'पुमानिवास्पशि मया वजन्त्या छाया मया पुंस इव व्यलोकि / // 45 //