________________ 676 ] | काव्यषट्कं . पर्वतेन परिपीय गभीरं नारदीयमुदितं प्रतिनेदे। .. स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदर्शि न पक्षः / / 44 / / पाणये बलरिपोरथ भैमीशीतकोमलकरग्रहमहम् / भेषजं चिरचिताशनिवासव्यापदामुपदिदेश रतीशः / / 5 / / ‘नाकलोकभिषजोः सुषमा या पुष्पचापमपि चुम्बति सैव / वेद्मि तादृगभिषज्यदसौ तदारसंक्रमितवैद्यकविद्य: / / 46 / / मानुषीमनुसरत्यथ पत्यौ खर्वभावमवलम्ब्य मघोनी / खण्डितं निज मसूचयदुच्चेर्मानमाननसरोरुहनत्या // 47 / / यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालमलम्भि।। वर्ण एव स खलूज्ज्वलमस्याः शान्तमान्तरमभाषत भङ्गया // 48 / / जीवितेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तिमती नः / इत्यनक्षरमवाचि घृताच्या दीर्घनिःश्वसितनिर्गमितेन / / 46 / / 15 साधु नः पतनमेवमितः स्यादित्यभण्यत तिलोत्तमयापि / चामरस्य पतनेन कराब्जात्तद्विलोलनचलद्भुजनालात् / / 50 / / मेनका मनसि तापमुदीतं यत्पिधित्सुरकरोदवहित्थाम् / तत्स्फुटं निजहृदः पुटपाके पङ्कलिप्तिमसृजद्वहिरुत्थाम् / / 51 / / उर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितभावनिभेन। 20 शक्रसौहृदसमापनसीमस्तम्भकार्यमपुषद्वपुषैव // 52 / / कापि कामपि बभाण बुभुत्सु शृण्वति त्रिदशभर्तरि किंचित् / एष कश्यपसुतामभिगन्ता पश्य कश्यपसुतः शतमन्युः // 53 / / आलिमात्मसुभगत्वसगर्वा कापि शण्वति मघोनि बभाषे।