________________ (5) नैषधीयचरितम् :: चतुर्थः सर्गः ) / 667 || 5|| * यदतनुस्त्वमिदं जगते हितं ___ क्व स मुनिस्तव यः सहते हतीः / विशिखमाश्रवणं परिपूर्य चेद विचलद्भुजमुज्झितुमीशिषे // 3 // सह तया स्मर ! भस्म झटित्यभूः पशुपति प्रति यामिषुमग्रहीः / ध्रुवमभूदधुना वितनोः शर स्तव पिकस्वर एव स पञ्चमः // 64 / / .स्मर ! स मदुरितैरफलीकृतो भगवतोऽपि भवदहनश्रमः / सुरहिताय हुतात्मतनुः पुन ननुजनुदिवि . तत्क्षगमापिथ विरहिणो विमुखस्य विधूदये ___ शमनदिक्पवनः स न दक्षिणः / सुमनसो नमयन्नटनौ धनु ___ स्तव तु बाहुरसौ यदि दक्षिणः // 96 / / किमु भवन्तममापतिरेककं मदमुदान्धमयोगिजनान्तकम् / यदजयत्तत एव न गीयते स भगवान्मदनान्धकमृत्युजित् // 97 / / त्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे / स्वमदहो दहनाज्ज्वलतात्मना . ज्वलयितुं परिरभ्य जगन्ति यः / / 8 / / 25 त्वमुचितं नयनाचिषि शंभुना भुवनशांतिकहोमहविः कृतः /