________________ 660 ] [ काव्यषट्कं हृदि लुठन्ति कला नितराममू विरहिणीवधपङ्ककलङ्किताः / कुमुदसंख्यकृतस्तु वहिष्कृताः सखि ! विलोकय दुविनयं विधो: / / 47 / / अयि ! विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता। ग्लपितशंभुगलाद्गरलात्त्वया किमुदधौ जड ! वा वडवानलात् / / 48 / / अयमयोगिवधूवधपातकै धमिमवाप्य दिवः खलु पात्यते / शितिनिशादृषदि स्फुटदुत्पत करणगणाधिकतारकिताम्वरः // 46 / / त्वमभिधेहि विधुं सखि ! मद्गिरा किमिदमीगधिक्रियते त्वया। न गणितं यदि जन्म पयोनिधी हरशिरःस्थितिभूरपि विस्मृता // 50 // निपततापि न मन्दरभूभृता त्वमुदधौ शशलाञ्छन ! चूर्णितः / अपि मुनेर्जठराचिषि जीर्णतां बत गतोऽसि न पीतपयोनिधेः // 51 / / किमसुभिग्लपितैर्जड ! मन्यसे मयि निमज्जतु भीमसुतामनः / मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः // 52 / / मुखरय स्वयशोनवडिण्डिमं जलनिधेः कुलमुज्ज्वलयाधुना।