SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 654 ] [ काध्यषट्कं परवति दमयन्ति ! त्वां न किंचिद्वदामि / द्रुतमुपनम किं मामाह सा शंस हंस ! / इति वदति नलेऽसौ तच्छशंसोपनम्रः .. प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः / / 134 / / 5 कथितमपि नरेन्द्रः शंसयामास हसं किमिति किमिति पृच्छन्भाषितं स प्रियायाः / अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे // 135 / / श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं 10 श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः / 136 / / / कविहर्षविरचित्ते नैषधीयप्रकाशे तृतीयः सर्गः समाप्तः / / 3 / / // 4 // चतुर्थः सर्गः॥ अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशःकुसुमं धनुः / श्रुतिपथोपगतं सुमनस्तया तमिषुमाशु विधाय जिगाय ताम् / / यदतनुज्वरभाक्तनुते स्म सा प्रियकथासरसोरसमज्जनम् / सपदि तस्य चिरान्तरतापिनी परिणतिविषमा समपद्यत / / 2 / / 20 ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतवेगतः / . स्थितिविरोधकरी द्वयगुकोदरी तदुदितः स हि यो यदनन्तरः / 3 / अतितमा समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् / अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जनः।४।
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy