________________ 634 ] . [ काव्यषटकं उदरं नतमध्यपृष्ठतास्फुटदगुष्ठपदेन मुष्टिना। चतुरङ्गुलमध्यनिर्गतत्रिवलिभ्राजि कृतं दमस्वसुः / / 34 / / उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु / धृततच्चतुरङ्गुलीव यद्वलिभि ति सहेमकाञ्चिभिः / / 35 / / 5 पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया / विधिरेककचक्रचारिणं किमु निमित्सति मान्मथं रथम् / / 36 / / तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् / तरुणीमपि जिष्णुरेव तां धनदापत्यतपःफलस्तनीम् / / 37 / / जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः / 15 ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्रदंपती // 38 / / श्रितपुण्यसरःसरित्कथं न समाधिक्षपिताखिलक्षपम् / जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि / / 36 / / सरसीः परिशीलितुं मया गमिकर्मीकृतनंकनीवृता। अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी / / 40 / / अवधृत्य दिवोऽपि यौवतैनसहाधीतवतीमिमामहम् / कतमस्तु विधातुराशये पतिरस्या वसतोत्यचिन्तयम् / / 41 / / अनुरूपमिगं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् / युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् / / 42 / / अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे / चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता / 43 / त्वयि वीर! विराजते परं दमयन्तीकिलकिञ्चितं किल / तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् / / 44 / / तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः / / इयमृद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि का / / 45 / / 25 अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया / घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा / 46 //