________________ (5) नैषधीयचरितम् :: प्रथम सर्गः ] [ 621 निवेद्यमानं वनपालपाणिना ___ व्यलोकयत्काननकामनीयकम् / / 76 / / फलानि पुष्पाणि च पल्लवे करे वयोतिपातोद्गतवातवेपिते / स्थितैः समादाय महर्षिवार्धका द्वने तदातिथ्यमशिक्षि शाखिभिः / / 77 / / विनिद्रपत्रालिगतालिकैतवा. न्मृगाङ्कचूडामणिवर्जनाजितम् / दधानमाशासु चरिष्णु दुर्यश: . स कौतुको तत्र ददर्श केतकम् / / 78 / / वियोगभाजां हृदि कण्टकैः कट निधोयसे कणिशरः स्मरेण यत् / ततो दुराकर्षतया तदन्तक द्धिगीयसे मन्मथदेहदाहिना / / 76 / / त्वदग्रसूचीराचिवेन कामिनो मनोभवः सीव्यति दुर्यशःपटौ / स्फुटं स पत्रैः करपत्रमूर्तिभि 'वियोगिहृद्दारुणि दारुणायते // 80 / / धनुर्मधुस्विन्नकरोऽपि भीमजा. परं परागैस्तव धूलिहस्तयन् / प्रसूनधन्वा शरसात्करोति ____ मामिति क्रुधाकुश्यत तेन केतकम् / / 81 / / विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवापश्यदलं तपस्यतः / फलानि धूमस्य धयानधोमुखा.न्स दाडिमे दोहदधूपिनि द्रुमे / / 82 / / पा