________________ 42 ] [ काव्यषट्के (1) रघुवंशम् यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः / प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् // 56 // अंडेन साधू विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु / द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः // 57 / / ____5 प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् / . तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् / 58 / 'अथोरगाख्यस्य पुरस्यं नाथं दौवारिकी देवसरूपमेत्य / इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् 56 पाण्ड्योऽयमंसार्पितलम्बहारः क्लप्ताङ्गरागो हरिचन्दनेन / '10 प्राभाति बालातपरक्तसानुः सनिर्भरोद्गार इवाद्रिराजः।६०। .. विन्ध्यस्य संस्तम्भयिता महाद्रे - निःशेषपीतोज्झितसिन्धुराजः / प्रीत्याश्वमेधावभृथामूर्तेः, सौस्नातिको यस्य भवत्यगस्त्यः // 61 / / 15 अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः / पुरा जनस्थानविमर्दशङ्की संघाय लङ्काधिपतिः प्रतस्थे / 62 / अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी / रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः 63 ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु / तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु // 64 / / इन्दीवरश्यामतनुन पोऽसौ त्वं रोचनागौरशरीरयष्टिः / अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु / 65 / स्वसुविदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः। .. दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे / / 66 / / . 25 संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा / नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः / / 67 / /