________________ (4) शिशुपालवधम् :: विंशः सर्गः ] . [ 596 - // 20 // विंशः सर्गः (वैतालीयवृत्तम् ) मुखमुल्लसितत्रिरेखमुच्चै भिदुरभ्रूयुगभीषणं दधानः / समिताविति विक्रमान मृष्यन्गतभीराह्नत चेदिराण्मुरारिम् / / 1 / / शितचक्रनिपातसंप्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् / अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या // 2 / / अभिचैद्यमगाद्रथोऽपि शौरे रवनि जागुडकुकुमाभितानैः / गुरुनेमिनिपीडनावदीर्ण व्यसुदेहस्र तशोणितविलिम्पन् स निरायतकेतनांशुकान्तः ___ कलनिक्वाणकरालकिङ्किणीकः / विरराज रिपुक्षय. प्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः / / 4 / / सजलाम्बुधरारवानुकारी .. ध्वनिरापूरितदिङ्मुखो रथस्य / प्रगुणीकृतकेकमूर्ध्वकण्ठः शितिकण्ठेरुपकर्णयाम्बभूवे अभिवीक्ष्य विदर्भराजपुत्री कुचकाश्मीरजचिह्नमच्युतोरः / / / 3 / /