________________ 596 ] [ काव्यषट्कं मुक्तानेकशरं प्राणानहरद्भूयसां द्विषाम् / तदीयं धनुरन्यस्य न हि सेहे सजीवताम् // 101 / / // यक्षरः / / राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः / 5 रेजारिजूरजोर्जार्जी रराजर्जु रजर्जरः // 102 / / उद्धतान्द्विषतस्तस्य निघ्नतो द्वितयं ययुः / पानार्थे रुधिरं धातौ रक्षार्थ भुवनं शराः // 103 // . यक्षरः / / . करारिकारि कोरेककारक: कारिकाकरः।। 10 कोरकाकारकरकः करीर: कर्करोऽर्करुक् / / 104 / / विधातुमवतीर्णोऽपि लघिमानमसौ भुवः / अनेकमरिसंघातमकरोद् भूमिवर्धनम् // 105 / / // यक्षर / / / दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः / 15 दूरादरौद्रोऽददरद्रोदोरुदारुरादरी // 106 / / एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव / स जन्मान्तररामस्य चके सदृशमात्मनः / / 107 / / // यक्षरः // शूरः शोरिरशिशिरैराशाशैराशु राशिशः / 20 शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः / / 108 / / व्यक्तासीदरितारीणां यत्तदीयास्तदा मुहुः / मनोहृतोऽपि हृदये लेगुरेषां न पत्रिणः / / 106 / / ॥अतालव्यः / / नामाक्षराणां मलना मा भूद्भर्तु रतः स्फुटम् / 25 अगृह्णत पराङ्गानामसूनस्र न मार्गणाः / / 110 / / प्राच्छिद्य योघसार्थस्य प्राणसर्वस्वमाशुगाः / ऐकागारिकवद्भूमो दूराज्जग्मुरदर्शनम् // 111 / /