________________ व 3 ये वि क स दा (4) शिशुपालवधम् :: एकोनविंशः सर्गः ] [ 561 पुरः प्रयुक्तैर्युद्धं तच्चलितैलब्धशूद्धिभिः / आलापरिव गान्धर्वमदीप्यत पदातिभिः / / 48 / / केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता। प्रापे कीर्तिप्लुतमहीमण्डलाग्राऽनवद्यता / / 48 / / विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः / परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् 46 अन्येन विदधेऽरीणामतिमात्रा विलासिना। उद्गुणेन चमूस्तूर्णमतिमात्राविलाऽसिना / 50 / सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः / तथोर्ध्व एव काबन्थीमभजन्नर्तनक्रियाम् / / 51 / / शस्त्रवणमयश्रीमदलङ्करणभूषितः / . ददृशेऽन्यो रावणवदलङ्करणभूषितः / / 52 / / द्विषद्विशसनच्छेदनिरस्तोरुयुगोऽपरः / सिक्तश्चास्र रुभयथा बभूवारुणविग्रहः / / 53 / / भीमतामपरोऽम्भोधिसमेऽधित महाहवे / दाक्षे कोपः शिवस्येव समेधितमहा हवे / / 54 / / दन्तैश्चिच्छिदिरे कोपात् प्रतिपक्षं गजा इव / परनिस्त्रिशनिलूनकरवालाः पदातयः / / 55 / / रणे रभसनिभिन्नद्विपपाट विकासिनि / न तत्र गतभीः कश्चिद्विपपाट विकासिनि / 56 / यावन्न सत्कृतैर्भ : स्नेहस्यानृण्यमिच्छुभिः / अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् / / 57 / / नं प्र वृ त्ते वि ल स डा नं सा प . ने 'प्य दिशा दिभिः यु 5 मा 5 वि. वा. णि भि: . / समुद्गयमकम् / / अयशोभिदुरालोके कोपधाम-रणाहते / अयशोभिदुरा लोके कोपधा मरणाइते / / 58 / /