________________ 560 [ काव्यषट्कं करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः / ... करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ / / 36 / / धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः / / सरोषसम्भ्रमैर्बभ्रे रौद्र एव रणे रसः / / 37 / / 5 . न तस्थौ भर्ततः प्राप्तमानसम्प्रतिपत्तिषु / रणैकसर्गेषु भयं मानसं प्रति पत्तिषु / / 38 / / बाणाहिपूर्णतूणोरकोटरैर्धन्विशाखिभिः / गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी / / 36 / / ॥प्रतिलोमानुलोमपादः / / 10 नानाजाववजानाना सा जनौघघनौजसा / परानिहाऽहानिराप तान्वियाततयाऽन्विता / / 40 / / विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः / श्लोकैरिव महाकाव्यं व्यूहैस्तदभवबलम् / / 41 / / संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया। 15 ववले योद्धमुत्पन्नप्रतिभा स्वरसेन या / / 42 / / विस्तीर्णमायामवती लोललोकनिरन्तरा / नरेन्द्र मार्ग रथ्येव पपात द्विषतां बलम् / / 43 / / वारणागगभोरा सा साराऽभीगगणारवा / . कारितारिवधा सेना नासेधा वारितारिका / / 44 / / अधिनागं प्रजविनो विकसत्पिच्छचारवः / पेतुर्बहिणदेशीयाः शङ्कवः प्राणहारिणः // 45 / / // गोमूत्रिकाबन्धः / प्रवृ त्ते वि क स द्ध्वा नं सा ध ने प्य वि षा दि भिः / 25 व वृषे वि क स हा न यु ध मा प्य वि षा रिण भिः / / 46 / /