________________ (4) शिशुपालवधम् :: एकोनविंशः सर्गः ] ( 587 नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः / बभौ बिभ्रद्धनुःशाखामधिरूढशिलीमुखाम् / / 12 / / “प्राप्य भीममसौ जन्यं सौजन्यं दधदानते / विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः / / 13 / / 5 कृतस्य सर्वक्षितिपैविजयाशंसया पुरः / अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् / / 14 / / या बभार कृतानेकमाया सेना ससारताम् / धनुः स कर्षन् रहितमायासेनाससार ताम् // 15 / / प्रोजो महोजाः कृत्वाधस्तत्क्षणादुत्तमौजसः / 10 कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् / / 16 // दूरादेव चमूमल्लैः कुमारो हन्ति स स्म याः / न पुनः सांयुगीं तां स्म कुमारो हन्ति सस्मयाः / / 17 / / निपीड्य तरसा तेन मुक्ताः काममनास्थया / उपाययुविलक्षत्वं विद्विषो न शिलीमुखाः // 18 // 15 तस्यावदानैः समरे सहसा रोमहर्षिभिः / सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः / / 16 / / सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः / भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः // 20 // . सोढुं तस्य द्विषो नालमपयोधरवा रणम् / 20 ऊर्ण नाव यशश्च द्यामपयोधरवारणम् // 21 / / के शप्रचुरलोकस्य पर्यस्कारि विकासिना / शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा // 22 // सादरं युध्यमानापि तेनान्यनरसादरम् / सा दरं पृतना निन्ये हीयमाना रसादरम् / / 23 / / 25. इत्यालिङ्गितमालोक्य जयलक्ष्म्या झषध्वजम् / क्रुद्धयेव क्रुधा सद्य: प्रपेदे चेदिभूपति: / / 24 / /