________________ 566 ] [ काव्यषट्कं عر निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् / मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समन ह्यताजये // 20 / / मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः / अदंशयन्नरहितशौर्यदेशनास्तनू रयं नय इति वृष्णिभूभृतः // 21 // दुरुद्वहाः क्षणमपरैस्तदन्तरे ___रणश्रवादुपचयमाशु बिभ्रति / महीभुजां महिमभृतां न संम - मुमुदोऽन्तरा वपुषि बहिश्च कञ्चुकाः / / 22 / / संकल्पनं द्विरदगणं वरूथिन स्तुरङ्गिणो जयनयुजश्च वाजिनः / त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् / / 23 / / युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया / अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् // 24 // सुमेखलाः सिततरदन्त चारवः समुल्लसत्तनुपरिधानसंपदः / रणैषिणां पुलकभृतोऽधिकंधरं ललम्बिरे सदसिलता: प्रिया इव // 25 / / मनोहरैः प्रकृतमनोरमाकृति भयप्रदैः समितिषु भीमदर्शनः / 25