________________ (4) शिशुपालवधम् :: सप्तदशः सर्गः ] [ 565 10 'क्रुधा दधत्तनुमति लोहिनीमगू त्प्रसेनजिद्गज इव गैरिकारुणः // 13 / / सकुङ्कमैरविरलमम्बुबिन्दुभि वेषण: परिणतदाडिमारुणैः / / स मत्सरस्फुटितवपुर्विनिःसृत र्बभौ चिरं निचित इवासृजां लवैः / / 14 / / ससंभ्रमं चरणतलाभिताता ___ डनस्फुटन्महीविवरवितीर्णवमभिः / रवेः करैरनुचिततापितोरगं प्रकाशतां शिंनिरनयद्रसातलम् // 15 / / प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः / अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव // 16 // दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः / विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः // 17 / / समाकुले सदसि तथापि विक्रियां मनोऽगमन्न मुरभिदः परोदितैः / घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः // 18 / / परानमी यदपवदन्त प्रात्मनः - स्तुवन्ति च स्थितिरसतामसाविति / / निनाय नो विकृतिमविस्मित: स्मितं मुखं शरच्छशधरमुग्धमुद्धवः / / 19 / /