________________ (4) शिशुपालवधम् :: पञ्चदशः सर्गः ] [ 545 नीचि नियतमिव यच्चपलो निरतः स्फुटं स्वसि निम्नगासुतः // 21 // प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमहणम् / कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता // 22 / / असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते / दण्डदलितसरघः प्रथसे मधु. सूदनस्त्वमिति सूदयन्मधु // 23 // मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः / सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः // 24 / / छलयन्प्रजास्त्वमन्तेन कपटपटुरेन्द्रजालिकः / प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे // 25 / / धृतवान्न चक्रमरिचक्र भयचकितमाहवे निजम् / चक्रधर इति रथाङ्गमदः सततं बिभषि भुवनेषु रूढये // 26 / / जगति श्रिया विरहितोऽपि .. यदुदधिसुतामुपायथाः / / ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः / / 27 / /