________________ (4) शिशुपालवधम् :: पञ्चदशः सर्गः ] [ 543 // 15 // पञ्चदशः सर्गः॥ अथ तत्र पाण्डतनयेन सदसि विहितं मुरद्विषः / मानमसहत न चेदिपतिः परि वृद्धिमत्सरि मनो हि मानिनाम् // 1 / / पुर एव शाङ्गिण सवैरमथ पुनरमुं तदर्चया / मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः / / 2 / / अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् / / लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः / / 3 / / 10 स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डल: / स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा / / 4 / / स निकाममितमभीक्ष्णमधुवदवधूतराजकः / क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः / / 5 / / क्षणमाश्लिषद् घटितशैलशिखरकठिनांसमण्डलः / 15 स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् / / 6 / / कनकाङ्गदद्युतिभिरस्य गसितमरुचत् पिशङ्गताम् / क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् / 7 / कृतसन्निधामिव तस्य पुनरपि तृतीयचक्षुषा / क्रूरमजनि कुटिलभ्रगुरुभ्रुकुटीकठोरितललाटमाननम् // 8 // अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे / दृष्टिरगणितभयासिलतामवलम्बते स्म समया सखीमिव / / 6 / / करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् / / त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः // 10 // इति चुऋधे भृशमनेन ननु महदवाप्य विप्रियम् / 25 याति विकृतिमपि संवृतिमत् किमु यन्निसर्गनिरवग्रहं मनः / 11 /