________________ 532 ] [ काव्यषटकं जमदग्निसूनुपितृतर्पणी रपो वहति स्म या विरलशैवला इव / / 52 / / विशदाश्मकूटघटिताः क्षपाकृतः / क्षणदासु यत्र च रुचकतां गताः / .. गृहपङ्क्तयश्चिरमतीयिरे जनस्त मसीव हस्तपरिमर्शसूचिताः / / 53 / / निलयेषु नक्तमसिताश्मनां चय बिसिनीव●परिभवस्फुटागसः / मुहुरत्रसद्भिरपि यत्र गौरवा च्छशलाञ्छनांशव उपांशु जनिरे / / 54 / / . सुखिनः पुरोऽभिमुखतामुपागतः प्रतिमासु यत्र गृहरत्नभित्तिषु / नवसङ्गमैरबिभरुः प्रियाजनैः / / प्रमदं त्रपाभरपराङ्मुखैरपि // 55 // तृणवाञ्छया मुहुरवाञ्चितानना निचयेषु यत्र हरिताश्मवेश्मनाम् / रसनाग्रलग्नकिरणाङ्कुरानो हरिणान्गृहीतकवलानिवैक्षत / / 56 // विपुलालवालभृतवारिदर्पण __प्रतिमागतरभिविरेजुरात्मभिः / यदुपान्तिकेषु दघतो महीरुहः ___ सपलाशराशिमिव मूलसंहतिम् // 57 / / उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहु ___ रुन्नतस्य रसितैः पयोमुचः / अभवन्यदङ्गणभुवः समु च्छ्वसन्नववालवायजमणिस्थलाकुराः।।५८॥ 25