________________ (4) शिशुपालवधम् :: त्रयोदशः सर्गः ] [ 529 व्यतनोदपास्य चरणं प्रसाधिका करपल्लवाद्रसवशेन काचन / द्रुतयावकैकपदचित्रितावनि पदवी गतेव गिरिजा हरार्धताम् // 33 / / व्यचलन्विशङ्कटकटीरकस्थली शिखरस्खलन्मुखरमेखलाकुलाः / भवनानि तुङ्गतपनीयसंक्रम क्रमणक्वणत्कनकनूपुराः स्त्रियः // 34 / / अधिरुक्ममन्दिरगवाक्षमुल्ल सत्सुदृशो रराज * मुरजिद्दिदृक्षया / वदनारविन्दमुदयाद्रिकन्दरा विवरोदरस्थित मिवेन्दुमण्डलम् // 35 / / अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयकया। विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् // 36 // करयुग्मपद्ममुकुलापवजितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् / प्रवदीर्णशुक्तिपुटमुक्तमौक्तिक प्रकरैरिव प्रियरथाङ्गमङ्गनाः // 37 / / हिममुक्तचन्द्ररुचिरः सपद्मको ___ मदयन्द्विजाजनितमीनकेतनः / . प्रभवत्प्रसादितसुरो महोत्सवः - प्रमदाजनस्य स चिराय माधवः / / 38 / / धरणीधरेन्द्रदुहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति / .25