________________ 522 ] [ काव्यषट्कं कृष्णापि शुद्धरधिकं विधातृभि विहन्तुमंहांसि जलैः पटीयसी // 67 / / यस्या महानोलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः / कालीरपस्ताभिरिवानुरञ्जिता: क्षणेन भिन्नाञ्जनवर्णतां घना: / / 68 / / व्यक्तं बलीयान् यदि हेतुराग ___ मादपूरयत्सा जलधिं न जाह्नवी / गाङ्गौघनिर्भस्मितशम्भुकन्धरा सवर्णमणः कथमन्यथास्य तत् / / 66 / / अभ्युद्यतस्य ऋमितुं जवेन गां तमालनीला नितरां घृतायतिः / सीमेव सा तस्य पुरः क्षणं बभौ .. बलाम्बुराशेर्महतो महापगा // 70 / / लोलेररित्रैश्चरणैरिवाभितो / - जवावजन्तीभिरसी सरिज्जनः / नौभिः प्रतेरे परितः प्लवोदित भ्रमीनिमीलल्लनावलम्बितैः // 71 / / तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेला परितो जगाहिरे / 20 सद्यस्ततस्तेरुरनारतस्र तस्वदानवारिप्रचुरीकृतं पयः / / 72 / / प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखै ___ स्तुरङ्गमैरायतकीर्णवालधि / उत्कर्णमुद्वाहितधीरकन्धरै रतीयताने तटदत्तदृष्टिभिः // 73 // 25 तीर्खा जनेनैव नितान्तदुस्तरां नदी प्रतिज्ञामिव तां गरीयसीम् /