________________ (4) शिशुपालवधम् :: द्वादशः सर्गः ] [ 521 परनन्वोतवधूमुखद्युतो गता न हंसः श्रियमातपत्रजाम् / दुरेऽभवन्भोजबलस्य गच्छतः शैलोपमातीतगजस्य निग्नगाः // 61 / / स्निग्धाञ्जनश्यामतनूभिरुन्नतै निरन्तराला करिणां कदम्बकैः / सेना सुधाक्षालितसौघसम्पदा पुरां बहूनां परभागमाप सा / / 62 / / प्रासादशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः / नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा / / 63 / / वर्म द्विपानां विरुवन्त उच्चकै वनेचरेभ्यश्चिरमाचचक्षिरे / गण्डस्थलाघर्षगलन्मदोदक द्रवद्रुमस्कन्धनिलायिनोऽलयः // 64 / / पायामवद्भिः करिणां घटाशतै __रधःकृताट्टालकपक्तिरुच्चकैः / दूष्यजितोदग्रगृहाणि सा चमू रतीत्य भूयांसि पुराण्यवर्तत / / 65 / / उद्धृतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः / आह्लादिकलारसमीरणाहते - पुरः पपाताम्भसि यामुने रजः / / 66 / / या धर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः / 25