________________ (4) शिशुपालवधम् :: द्वादशः सर्गः ] [ 515 दुर्दान्त मुत्कृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः / पर्याणतः स्रस्तमुरोविलम्बिन स्तुरङ्गमं प्रदूतमेकया दिशा // 22 / / भूभृद्भिरप्यस्खलिताः खलून्नतै रपह नुवाना सरितः पृथूरपि / अन्वर्थसंज्ञैव परं त्रिमार्गगा ___ ययावसंख्यैः पथिभिश्चमूरसौ // 23 / / त्रस्तौ समासन्नकरेणुसूत्कृता नियन्तरि व्याकुलमुक्तरज्जुके / क्षिप्तावरोधाङ्गनमुत्पथेन गां विलनयलध्वीं करभौ बभञ्जतुः // 24 // स्रस्ताङ्गसन्धौ विगताक्षपाटवे ___ रुजा निकामं विकलीकृते रथे / प्राप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः // 25 / / धूर्भङ्गसंक्षोभविदारितोष्टिका गलन्मधुप्लावितदूरवर्त्मनि / स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् // 26 / / भेरीभिराक्रष्टमहागुहामुखो .. ध्वजांशुकैस्तजितकन्दलीवनः। उत्तङ्गमातङ्गजितालघूपलों - बलैः स पश्चात्क्रियते स्म भूधरः // 27 / / 25 वन्येभदानानिलगन्धदुर्धराः क्षणं तरुच्छेद विनोदितक्रुधः /