________________ 514 ] [ काव्यषट्कं तारेर्बभूवे परभागलाभतः - परिस्फुटैस्तेषु तुरङ्गहेषितैः // 15 / / अन्वेतुकामोऽवमताकुशग्रह- . स्तिरोगतं साङ्कुशमुहशिरः / / स्थूलोच्चयेनागमदन्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम् // 16 / / यान्तोऽस्पृशन्तश्चरपरिवावनि ___जवात्प्रकीर्णरभितः प्रकीर्णकैः / अद्यापि सेनातुरगाः सविस्मय - रलूनपक्षा इव मेनिरे . जनैः / / 17 / / ऋज्वोर्दधानैरवतत्य कन्धरा श्चलावचूडाः कलघर्घरारवैः / भूमिमहत्यप्यविलम्बितक्रमं / क्रमेलकैस्तत्क्षणमेव चिच्छिदे // 18 / / तूर्णं प्रणेता कृतनादमुच्चकैः . प्रणोदितं वेसरयुग्यमध्वनि / आत्मीयनेमिक्षतसान्द्रमेदिनी..रजश्चयाक्रान्तिभयादिवाद्रवत् . // 16 // व्यावृक्तवक्त्रैरखिलैश्चमूचरै वद्भिरेव क्षणमीक्षिताननाः / वल्गद्गरीयः स्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः // 20 // पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः / भग्नोन्नतानन्तरपूरितान्तरा बभूर्भुवः कृष्टसमीकृता इव // 21 / / 25