________________ 498 ] [ काव्यषट्कं 5 10 ऊरुमूलचपलेक्षणमघ्नन् यवतंसकुसुमैः प्रियमेताः / चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम // 67 / / धैर्यमुल्बणमनोभवभावा वामतां च वपुरपितवत्यः / व्रीडितं ललितसौरतधाष्टर्यास् ___ तेनिरेऽभिरुचितेषु तरुण्य: // 68 // पाणिरोधमविरोधितवाञ्छं / भर्त्सनाश्च मधुरस्मितगर्भाः / कामिनः स्म कुरुते करभोरूर् हारि शुष्करुदितं च सुखेऽपि // 66 / / वारणार्थपदगद्गदवाचामीग्रंया मुहुरपत्रपया च / कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः / / 70 // 15 प्रन्यकालपरिहार्यमजस्रं तवयेन विदधे द्वयमेव / धृष्टता रहसि भर्तृषु ताभिनिर्दयत्वमितररबलासु / / 71 / / बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः / बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः / / 72 / / कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष / संहतस्तनतिरस्कृतदृष्टिर् भ्रष्टमेव न दुकूलमपश्यत् // 73 / / आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ! त्रुटयतः प्रियतमोरसि हारात पुष्पवृष्टिरिव मौक्तिकवृष्टिः // 74 / /