________________ (4) शिशुपालवधम् :: दशमः सर्गः ] [ 465 स्रसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन / आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन // 45 / / पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः / स्पष्टमेव दलतः प्रतिनास्तिन्मयत्वमभवद्धृदयस्य / / 46 / / 5 दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने / वक्रतां न ययतुः कुचकुम्भौ सुभ्रवः कठिनतातिशयेन / / 47 / / सम्प्रवेष्टुमिव योषित ईषु: लिप्यतां हृदयमिष्टतमानाम् / प्रात्मनः सततमेव तदन्तर् वतिनो न खलु नूनमजानन् / 48 / / स्नेहनिर्भरमधत्त वधूना मार्द्रतां वपुरसंशयमन्तः / यूनि * गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन // 46 / / न स्म माति वपुषः प्रमदा - नामन्तरिष्टतमसङ्गमजन्मा। तबहुबहिरवाप्य विकास ___व्यानशे तनुरुहाण्यमपि हर्षः // 50 / / यत्प्रियव्यतिकराद्वनिता नामङ्गजेन पुलकेन बभूवे / प्रापि तेन भृशमुच्छ्वसिताभिर् नीविभिः सपदि बन्धनमोक्षः // 51 / / ह्रीभरादवनतं परिरम्भे . रागवानवटुजेष्ववकृष्य / .. 25 . अर्पितोष्ठदलमाननपद्म योषितो मुकुलिताक्षमधासीत् // 52 / /